Wednesday, 2 March 2016

किमत्र चित्रं यत्सन्तः



मूलम्-
किमत्र चित्रं यत्सन्तः परानुग्रहतत्पराः ।
न हि स्वदेहसौख्याय जायन्ते चन्दनद्रुमाः ॥ -विक्रमचरितम्, १३८, सुभाषितरत्नभाण्डागारः ४५.३४, सुभाषितसुधानिधिः
पदविभागः-
किम् अत्र चित्रं यत् सन्तः परानुग्रहतत्पराः । न हि स्वदेहसौख्याय जायन्ते चन्दनद्रुमाः ।
अन्वयः-
किम् अत्र चित्रं यत् सन्तः परानुग्रहतत्पराः । चन्दनद्रुमाः स्वदेहसौख्याय न हि जायन्ते ।
प्रतिपदार्थः-
किम् = किम् ; what
अत्र = अस्मिन् विषये ; here
चित्रं = आश्चर्यकरम् ; wonder
यत् = यत् ; that (relative)
सन्तः = सज्जनाः, सत्पुरुषाः ; noble people
परानुग्रहतत्पराः = अन्येषां प्रसादे आसक्ताः ; always ready to support and to be kind to others, (indulged in showing grace upon others)
चन्दनद्रुमाः = चन्दनवृक्षाः ; sandal wood trees
स्वदेहसौख्याय = स्वेषां कायानां सुखमुत्पादयितुं ; for comfort of own body
न हि जायन्ते = न रोहन्ति ; do not grow
तात्पर्यम्-
सज्जनाः सदा अन्येषां प्रसादकरणे आसक्ताः भवन्ति (स्वस्य सुखवर्धनाय न जीवन्ति)। यथा चन्दनवृक्षाः स्वेषां कायानां सुखमुत्पादयितुं न जायन्ते। चन्दन-लेपनेन मनुष्य-शरीराणां सौख्यं वर्धते।

What is the wonder, in noble people being ever-ready to support and help others? Sandal wood trees do not grow to (give) comfort (to) their own bodies.
(They render comfort to others’ bodies when applied. So are noble men, not born for benefit of their own selves, but to support others.)

क्या आश्चर्य है कि सन्तजन दूसरों पर कृपा करने में (सदैव) तत्पर रहते हैं? चन्दन के पेड स्वयं के शरीर को सुख देने के लिए नहीं उगते।

प्रश्नाः-
      १.      कुत्र चित्रं न भवति?
      २.      सतां लक्षणं किं भवति?
      ३.      चन्दनद्रुमाः कीदृशाः भवन्ति?
      ४.      ‘परानुग्रहतत्पराः’- इत्यत्र समासविग्रहं वदत।
      ५.      स्वदेहसौख्याय- इत्यत्र समासविग्रहं वदत।
      ६.      ‘जायन्ते’ इति शब्दस्य व्युत्पत्तिं वदत।

1 comment:

  1. tks a lot for providing anvay and meaning in sanskrit as well as english.

    ReplyDelete