Wednesday, 2 March 2016

रत्नैर्महार्हैः



मूलम्-
रत्नैर्महार्हैस्तुतुषुर्न देवा न भेजिरे भीमविषेण भीतिम् ।
सुधां विना न प्रययुर्विरामं न निश्चिदार्थाद्विरमन्ति धीराः ॥नीतिशतकम्, भर्तृहरिः
पदविभागः-
रत्नैः महार्हैः तुतुषुः न देवाः न भेजिरे भीमविषेण भीतिं । सुधां विना न प्रययुः विरामं न निश्चितार्थात् विरमन्ति धीराः ॥
अन्वयः-
देवाः महार्हैः रत्नैः न तुतुषुः। भीमविषेण भीतिं न भेजिरे। सुधां विना विरामं न प्रययुः। धीराः निश्चितार्थात् न विरमन्ति ॥
प्रतिपदार्थः-
देवाः = द्युर्लोकवासिनः ; gods
महार्हैः = अमूल्यैः ; by great, valuable, priceless
रत्नैः = तन्नामविशिष्टैः मणिभिः ; by gems, precious stones
न तुतुषुः = न तृप्ता अभवन् ; did not get satisfied, were not contented
भीमविषेण = भयानक-गरलेन, हालाहलेन ; by terrible poison
भीतिं = भयं ; fear
न भेजिरे = न प्राप्नुवन् ; did not take recourse
सुधां = अमृतम् ; amṛtaṃ, the nectar of immortality
विना = रहितं ; without
विरामं = अवसानं, विघ्नः ; Cessation, discontinuance, pause, termination
न प्रययुः = न प्राप्नुवन् ; did not reach
धीराः = धैर्यशालिनः, स्थिरचित्ताः ; courageous
निश्चितार्थात् = कृतात् सङ्कल्पात् ; from determined, ascertained end, aim, objective
न विरमन्ति = निवर्तन्ते (पृथकग्गच्छन्ति) ; do not stop, do not cease to act, do not give up
तात्पर्यम्-
अति मूल्यवान रत्नों के ढेर मिलने पर देवगण संतुष्ट न हुए, या भयंकर विष निकलने पर वे डरे नहीं; अमृत न मिलने तक वे रुके नहीं (डँटे रहे) । उसी तरह, धीर व्यक्ति निश्चित किये कामों में से पीछे नहीं हटते ।

Gods did not get satisfied by precious stones; were not afraid by dangerous poison; did not stop until they attained the immortality nectar. Courageous people never quit (in) the (middle of) goals they decide (to attain.)

द्युलोकवासिनः देवताः अमूल्यमणिभिः न सन्तोषमलभन्त। ते घोरगरलेन (हालाहालेन) न भीताः। यावत् पीयूषं न प्राप्नुवन्, तावत् प्रयत्नं नात्यजन्। सङ्कल्पितेभ्यः कार्येभ्यः धैर्यशालिनो नराः न निवर्तन्ते (पृथकग्गच्छन्ति)।
प्रश्नाः-
      १.       के कैः न तुतुषुः?
      २.       केन भीतिं न भेजिरे?
      ३.       के तस्मात् न विरमन्ति?
      ४.       ‘निश्चितार्थात्’ इत्यत्र कः समासः?
      ५.       ‘भेजिरे’ इत्यस्य व्युत्पत्तिं (शब्दनिर्मितिं) वदत।
      ६.       ‘तुतुषुः’ इत्यस्य व्युत्पत्तिं (शब्दनिर्मितिं) वदत।

आत्मनो मुखदोषेण



मूलम्-
आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः ।
बकास्तत्र न बध्यन्ते मौनं सर्वार्थसाधनम् ॥पञ्चतन्त्रम्.४८
पदविभागः-
आत्मनः मुखदोषेण बध्यन्ते शुक-सारिकाः । बकाः तत्र न बध्यन्ते मौनं सर्वार्थ-साधनम् ॥
अन्वयः-
शुक-सारिकाः आत्मनः मुखदोषेण बध्यन्ते । बकाः तत्र न बध्यन्ते। मौनं सर्वार्थ-साधनम् ॥
प्रतिपदार्थः-
आत्मनः = स्वस्य, स्वीयः ; of the self
मुखदोषेन = वाचा आचरित दोषेन, अनुचितस्थाने संवादनेन ; by the fault of the mouth (talk)
शुक-सारिकाः = पक्षिविशेषाः ; parrot, a bird (nightingale/cuckoo?)
बकाः = पक्षिविशेषाः ; cranes
बध्यन्ते = बन्धनस्थानं यान्ति, जाले, वागुरायां वा पतन्ति ; get trapped, tied down
मौनं = तूष्णीं स्थितिः ; silence
सर्वार्थ-साधनम् = समस्त-प्रयोजन-सिद्धिकरं ; instrument for obtaining all objects
तात्पर्यम्-
अपने मुँह (बन्द न रखने) के दोष के कारण तोता-कोयल आदि पक्षियाँ फँस जाते हैं। पर बगला कभी नही फँसता। (सही समय पर) मौन रहना सभी प्रयोजनों को सिद्ध करता है।

The birds like parrots and cuckoos? get trapped by fault of their mouths (voices/sounds). Cranes do not get trapped. Silence is an instrument for obtaining all objects. [Applies to certain contexts where one needs to be silent, in things related to secrecy and diplomacy.]

शुक-पिकादि-पक्षिणः (अनुचितस्थलेषु) स्वमुखोद्घाटनवशात् (ध्वनिकरणेन) बन्धनं यान्ति। बकस्तु (तूष्णीं तिष्ठतीति कारणेन) कदाचिन्न बन्धे पतति। अतः तूष्णींस्थितिः ( = वाग्व्यापारराहित्यं) सर्वत्र (यत्रकुत्रचित् रहः व्यवहारः, गूढत्वं चापेक्ष्येते तत्र) प्रयोजनानि साधयति।

प्रश्नाः-
      १.      शुकाः कुतः बध्यन्ते?
      २.      बकाः कुतो न बध्यन्ते?
      ३.      किं सर्वाथसाधकं भवति?
      ४.      ‘मुखदोषेण’ इत्यत्र कः समासः?
      ५.      ‘सर्वाथसाधकं’ इत्यत्र कः समासः?
      ६.      अनेन सुभाषितेन किं ज्ञायते? (ऊहया लिखत)

असतोऽपि भवति गुणवान्



मूलम्-
असतोऽपि भवति गुणवान् सद्भ्योऽपि परं भवन्त्यसद्वृत्ताः।
पङ्कादुदेति कमलं क्रिमयः कमालादपि भवन्ति॥
पदविभागः-
असतः अपि भवति गुणवान् सद्भ्यः अपि परं भवन्ति असद्वृत्ताः। पङ्काद् उदेति कमलं क्रिमयः कमालाद् अपि भवन्ति॥
अन्वयः-
असतः अपि गुणवान् भवति। सद्भ्यः अपि परं असत्–वृत्ताः भवन्ति। पङ्काद् कमलं उदेति। क्रिमयः कमालाद् अपि भवन्ति॥
प्रतिपदार्थः-
असतः अपि = दुर्जनादपि ; from the wicked
गुणवान् = सद्गुणशीलः, सज्जनः, सुगुणयुक्तः ; virtuous one
भवति = जायते ; comes out, is born
सद्भ्यः अपि = सज्जनेभ्योऽपि, सत्पुरुषेभ्योऽपि ; from noble ones also
परं = किन्तु ; but, very much
असत्–वृत्ताः = दुष्टाः, दुर्गुणशीलाः, दुर्जनाः ; wicked-natured
पङ्काद् = (मृत्-जल-मिश्रित-कलुषस्थानात्), कर्दमात्, जम्बालात् ; from the mud
कमलं = पद्मं, पङ्कजं ; lotus
उदेति = प्रभवति, उत्पद्यते ; comes out, rises
क्रिमयः = सूक्ष्मजीविनः, कीटादि-अल्पप्राणिनः, क्षुद्रजन्तवः ; germs
कमालाद् अपि = पद्मात् अपि ; from lotus also
भवन्ति = जायन्ते, प्रभवन्ति ; are born
तात्पर्यम्-
दुर्जनों के मध्य से सज्जन हो सकते हैं और सज्जनों के बीच से ही दुष्टलोग। (जैसे-) कीचड में से भी कमल खिलता है, और उस कमल से भी कीटाणु निकलते हैं।

A virtuous person might arise from (among) wicked people; and evil-minded people can arise from (among) noble ones. Lotus is born out of mud, and germs arise out of even the lotus.

दुर्जनेभ्यः सज्जनो जायते कदाचित्। क्वचित् सज्जनेभ्योऽपि दुष्टः उत्पद्यते। (यथा-) कर्दमात् (अशुचिस्थानात्) पद्मं विकसति, तस्मात् पद्मात् एव कीटाणवः जायन्ते।
प्रश्नाः-
      १.      कुतः गुणवान् भवति?
      २.      सद्भ्योऽपि के भवन्ति?
      ३.      क्रिमयः कुतो जायन्ते?
      ४.      ‘भवन्त्यसद्वृत्ताः’ इत्यत्र कः सन्धिविच्छेदः?
      ५.      ‘पङ्कादुदेति’ इत्यत्र कः सन्धिविच्छेदः?
      ६.      ‘असद्वृत्ताः’ इत्यत्र कः समासः?

महाजनस्य संसर्गः



मूलम्-
महाजनस्य संसर्गः कस्य नोन्नतिकारकः।
पद्मपत्रस्थितं तोयं धत्ते मुक्ताफलश्रियम्॥
पदविभागः-
महाजनस्य संसर्गः कस्य न उन्नति-कारकः। पद्मपत्र-स्थितं तोयं धत्ते मुक्ताफल-श्रियम्॥
अन्वयः-
महाजनस्य संसर्गः कस्य न उन्नति–कारकः। पद्मपत्र–स्थितं तोयं मुक्ताफल-श्रियम् धत्ते ॥
प्रतिपदार्थः-
महाजनस्य = सत्पुरुषस्य ; of great person (people)
संसर्गः = परिचयः, सम्बन्धः ; company, association, contact
कस्य = कस्य नरस्य ; whose, for whom
उन्नति–कारकः न = वृद्धिः-समृद्धि-उदय-कारणं ; not cause of growth, height, progress
पद्मपत्र–स्थितं = कमलदले विद्यमानं ; that which is upon a lotus leaf
तोयं = जलं ; water
मुक्ताफल-श्रियं = मोक्तिकसौन्दर्यं ; the beauty and virtue of pearl
धत्ते = धरति ; wears
तात्पर्यम्-
सज्जनों के साथ सम्पर्क रखना किसका प्रगतिकारक नहीं होता? (सभी का होता है) कमल के पत्ते पर स्थित पानी की बूंद मोती के समान सुन्दर लगता है।
Whom does, being in association with good people, not bring progress? The water [droplet] on a lotus leaf shines like a pearl.
सज्जनैः सख्यं कस्य अभ्युदयं न कारयति? कमलदले वर्तमानः जलबिन्दुः मौक्तिकवत् प्रकाशसौन्दर्यादिकं भजते।
प्रश्नाः-
      १.      कः उन्नतिकारकः?
      २.      केन सह संसर्गः किं करोति?
      ३.      किं मुक्ताफल-श्रियं धत्ते?
      ४.      ‘पद्मपत्रस्थितं’ इत्यत्र कः समासः?
      ५.      ‘मुक्ताफलश्रियं’ इत्यत्र कः समासः?
      ६.      ‘उन्नतिकारकः’ इत्यत्र कः समासः?